स्वागतकक्ष

संस्कृत शिक्षणाचा मुख्य उद्देश हा आपल्या प्राचीन ग्रंथातील ज्ञानाचा शोध घेण्याची क्षमता निर्माण करणे हा आहे.

Download Android & iOS Apps by Dnyandeep.
संस्कृत - English/मराठी शब्दकोश, सुभाषिते, व्याकरण

Sanskrit (संस्कृतम्)

अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥

प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥

रामायणम् महाकाव्यम् महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥

भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥

यत्र रामकथागानं तत्रास्ते हनुमान् यथा ।
संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥

संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् ।
प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥


महताम् मतम्।

संस्कृतम् भारतस्य परम्परायाः संस्कृतेः सभ्यतायाश्र्च प्रतीको भवति ।
न तु केवलं काचिद्भाषा ।
                            - वि. वि. गिरि: । भूतपूर्व राष्ट्रपति:।

संस्कृतम् अनेकेषाम् भारतीयभाषाणां जननी भवति।
संस्कृतम् भारतीयानां मनसि तादृर्शी मुद्रां अकल्पयत्
यथा अस्माकं चेतनम् मस्तिष्कमपि न जानाति।
                          - डॉ. एस्.राधाकृष्ण:। भूतपूर्व राष्ट्रपति:।


यन्त्रविद्याया: आत्मविद्यायाः च मध्ये खातस्य योजनमपेक्षितम् । तन्मनोरथसिध्दये संस्कृतमेकसय सुन्दरस्य स्रोतो कार्यम् कर्तुमर्हति।
                           - डॉ.राजेन्द्रप्रसाद।भूतपूर्व राष्ट्रपति:।

Sanskrit is the greatest language of the world.
                           -  Max Muller, Sanskrit Scholar

Without the study of Sanskrit, one cannot become a true Indian and true learned man.
                              -  राष्ट्रपिता महात्मा गांधी


X

Right Click

No right click